मनो बुद्ध्यहंकारचित्तानि नाहं न च श्रोत्रजिह्वे न च घ्राणनेत्रे।
न च व्योमभूमिर्न तेजॊ न वायु: चिदानन्दरूप: शिवोऽहं शिवॊऽहम्॥
न च प्राणसंज्ञो न वै पञ्चवायुर्न वा सप्तधातुर्न वा पञ्चकोश:।
न वाक्पाणिपादौ न चोपस्थपायू चिदानन्दरूप: शिवोऽहं शिवॊऽहम्॥
न मे द्वेषरागौ न मे लोभमोहौ मदो नैव मे नैव मात्सर्यभाव:।
न धर्मो न चार्थो न कामो न मोक्ष: चिदानन्दरूप: शिवोऽहं शिवॊऽहम्॥
न पुण्यं न पापं न सौख्यं न दु:खं न मन्त्रो न तीर्थं न वेदा: न यज्ञः।
अहं भोजनं नैव भोज्यं न भोक्ता चिदानन्दरूप: शिवोऽहं शिवॊऽहम्॥
न मृत्युर्न शङ्का न मे जातिभेद: पिता नैव मे नैव माता न जन्म।
न बन्धुर्न मित्रं गुरुर्नैव शिष्य: चिदानन्दरूप: शिवोऽहं शिवॊऽहम्॥
अहं निर्विकल्पॊ निराकाररूपॊ विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम्।
न चासंगतं नैव मुक्तिर्न मेय: चिदानन्दरूप: शिवोऽहं शिवॊऽहम्॥
When the power of love
overrides the love of power,
the world will know peace
=
यदा प्रेम्णः शक्तिः
शक्तेः प्रेमातिक्रमति
जगच्छांतिं ज्ञास्यति
Keep calm and carry on
=
शाम्य प्रवर्तस्व च
01 June 2014
Sanskrit Translation for Jamie McIvor
Posted by Kiran Paranjape at 2:20 PM
Subscribe to:
Post Comments (Atom)
0 Comments:
Post a Comment